वांछित मन्त्र चुनें

त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू॑नि । काम॒मिन्मे॑ मघव॒न्मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमि॑न्द्रासि दा॒ता ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni | kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā ||

पद पाठ

त्वम् । विश्वा॑ । द॒धि॒षे॒ । केव॑लानि । यानि॑ । आ॒विः । या । च॒ । गुहा॑ । वसू॑नि । काम॑म् । इत् । मे॒ । म॒घ॒ऽव॒न् । मा । वि । ता॒रीः॒ । त्वम् । आ॒ऽज्ञा॒ता । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । दा॒ता ॥ १०.५४.५

ऋग्वेद » मण्डल:10» सूक्त:54» मन्त्र:5 | अष्टक:8» अध्याय:1» वर्ग:15» मन्त्र:5 | मण्डल:10» अनुवाक:4» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मघवन्) हे ऐश्वर्यवन् परमात्मन् ! (त्वम्) तू (विश्वा केवलानि वसूनि मे) मेरे लिये सरे विशिष्ट धनों को (यानि-आविः-या च गुहा दधिषे) जो प्रसिद्ध-प्रत्यक्ष हैं और जो गुप्त-परोक्ष हैं, उनको धारण करता है (कामम् इत्-मा वितारीः) उन में से तू कमनीय धन को विनष्ट न कर अपितु (इन्द्र) हे परमात्मन् ! (त्वम्-आज्ञाता त्वं दाता-असि) तू समर्थ-सम्पन्न करनेवाला दाता है ॥५॥
भावार्थभाषाः - परमात्मा समस्त धनों-ऐश्वर्यों का स्वामी है, चाहे वे प्रसिद्ध-प्रत्यक्ष धन हों या इन्द्रियों से भोगने योग्य हों या गुप्त हों-मन आत्मा से भोगने योग्य हों। उनमें से परमात्मा यथाधिकार कमनीय धन को प्रदान करता है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मघवन्) हे ऐश्वर्यवन् परमात्मन् ! (त्वम्) त्वं खलु (विश्वा केवलानि वसूनि मे) सर्वाणि विशिष्टानि धनानि मह्यम् (यानि-आविः-या च गुहा दधिषे) यानि प्रसिद्धानि प्रत्यक्षाणि यानि च गुप्तानि परोक्षाणि धारयसि (कामम् इत्-मा वितारीः) कमनीयमेव वसुधनं न विनाशय, अपि तु (इन्द्र) हे परमात्मन् ! (त्वम्-आज्ञाता त्वं दाता-असि) त्वं समर्थयिता दाता च भवसि ॥५॥